सूत्रम्
असंज्ञायां तिलयवाभ्याम्॥ ४।३।१४७
काशिका-वृत्तिः
असंज्ञायां तिलयवाभ्याम् ४।३।१४९
तिलयवशब्दाभ्याम् असंज्ञाविषये मयट् प्रत्ययो भवति विकारावयवयोरर्थयोः। तिलमयम्। यवमयम्।
असंज्ञायाम् इति किम्? तैलम्। यावकः। यावादिभ्यः कन्
५।४।२९।
न्यासः
असंज्ञायां तिलयवाभ्याम्। , ४।३।१४७
"तिलयवशब्दावाद्युदात्तौ" इति। तस्मादण्प्राप्नोति, अतस्तस्यायमपवादः। आद्युदात्तत्वं तु तयोः "तृणधान्यानां {गर्मुत्-- द।उ। ग्रो मुट् च" पं।उ।}द्व्यषाम्" (फिट्।२।२७) इत्यनेनैव भवितव्यम्। अस्यायमर्थः-- तृणधान्यानां द्व्यचामादिरुदात्तो भवतीति।
"यावकःर" इति। विकारेऽण्। तदन्तात्तु "यावादिभ्यः कन्"
५।४।२९ इति कन्॥
बाल-मनोरमा
असंज्ञायां तिलयवाभ्याम् १५०८, ४।३।१४७
असंज्ञायां तिलयवाभ्याम्। "नित्यंमय"डिति शेषः। यावक इति। यवशब्दाद्विकारे अण्। ततः "यावादिभ्यः" इति स्वार्थे कन्।
तत्त्व-बोधिनी
तिलयवाभ्याम् ११७३, ४।३।१४७
यावक इति। यवशब्दाद्विकारेऽण्, तदन्तात् "यावादिभ्यः"इति स्वार्थे कन्।